|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.248. अध्यायः 248
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन मध्येमार्गं क्वचन रमणीये देशे सेनादिसंनिवेशनपूर्वकमवस्थानम् ॥ 1 ॥ तत्रसमागतेन गन्धर्वकृते बन्धनमोचने अपरिजानता कर्णेन भ्रमात्तस्य गन्धर्वजेतृत्वेन रूपेण प्रशसनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-248-0x(2611)(25583)
शत्रुभिर्जितबद्धस् पाण्डवैश्च महात्मभिः।
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः ॥ 3-248-1(25584)
कत्थनस्यावलिप्तस्य गर्वितस् च नित्यशः।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥ 3-248-2(25585)
दुर्योधनस् पापस्य नित्याहंकारवादिनः।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥ 3-248-3(25586)
तस्य लज्जानवितस्यैव शोकव्याकुलचेतसः।
प्रवेशं विस्तरेण रत्वं वैशम्पायन कीर्तय ॥ 3-248-4(25587)
वैशम्पायन उवाच। 3-248-5x(2612)
धर्मराजनिसृष्स्तु धार्तराष्ट्रः सुयोधनः।
लज्जयाऽधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥ 3-248-5(25588)
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः।
शोकोदहतया बुद्ध्या चिन्तयानः पराभवम् ॥ 3-248-6(25589)
विमुच्य पथि यानानि देशे सुयवसोदके।
सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्।
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥ 3-248-7(25590)
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे।
उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये।
उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥ 3-248-8(25591)
दिष्ट्या जीवसि गान्धारे दिष्ठ्या नः संगमः पुनः।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥ 3-248-9(25592)
दिष्ट्या समग्रान्पश्यामि भ्रातॄस्ते कुरुनन्दन।
विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान् ॥ 3-248-10(25593)
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्व।
नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम्।
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ॥ 3-248-11(25594)
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत।
अरिष्टानक्षसांश्चापि सदारबलवाहनान्।
विमुक्तान्संप्रपश्यामि युद्धात्तस्मादमानुषात् ॥ 3-248-12(25595)
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्यति भारत।
यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥ 3-248-13(25596)
3-248-14(25597)
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-248-2 कत्थनस्यात्मस्तुतिपरस्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|